अहं काचन विहङ्गमिका॥
1. विहायसि मम गतिररोध्या विहारेऽस्मिन्नहमयोध्या
अहमजय्यास्मीतराभिर्विकृतरुतिभिः प्रगल्भाभिः ।
अक्षयास्म्यहमबाध्याहं पञ्जरे क्वाप्यबद्धाहम्,
रज्जुभिः क्वाप्यबद्धाहम्।
सर्वतन्त्रस्वतन्त्राहं समसमाजसमुन्नताहम्॥ अहं काचन विहङ्गमिका॥
2. ललितकाश्मीराच्छसरसिषु अमलमलयसुगन्धभूमिषु
गाङ्गयामुनसैकतेष्वथ भव्यगोदावरीवीचिषु
उदकमण्डलनिर्झरालिषु रमे पावनहिमशिखरिषु
द्वारिकाबृन्दावनपुरी-काश्यवन्तीमणिपुरादिषु ॥ अहं काचन विहङ्गमिका॥
3. नन्दनारामोच्चशाखासु अतुलमन्दिरनिकुञ्जाङ्घ्रिषु
चैत्ररथशुभकाननानां बाहुषु स्पृहया चरामि
सत्यलोके वरविकुण्ठे रम्यकैलासाग्रभूमौ
सुधर्मायां संयमिन्यामलकया सह वरुणपुर्याम् ॥ अहं काचन विहङ्गमिका॥
4. वेदशास्त्रपुराणनिलये काव्यनाटकजगत्यामपि
निखिलवाङ्मयमूलधामनि अक्षरेऽखिलसरस्वत्याम्
जातिमतवर्गादिभेदो नास्ति मम सत्यं ब्रवीमि
देशकालविरोधशून्या अहं संस्कृतहंसिका॥
अहं भारतहंसिका
अहं संस्कृतहंसिका
अहं हैन्दवहंसिका॥
No comments:
Post a Comment